Create New Playlist

Add a cover pic of your own choice

(Optional)

Name

AI Cover Generator

4 credits

Not enough credits (0/4).

Logout

Are you sure you want to Logout?

Close

Bhagirati's Blessing 2 by gtyh

SongGPT
Bhagirati's Blessing 2 by gtyh - World Music,both vocals music cover art

Bhagirati's Blessing 2

World Music,both vocals

0:003:45
Lyrics
Description
भागीरथीसलिलसान्द्रजटाकलापम्
शीतांशुकान्ति-रमणीय-विशाल-भालम् ।
कर्पूरदुग्धहिमहंसनिभं स्वतोजम्
नित्यं भजाम्यऽमरनाथमहं दयालुम् ॥
गौरीपतिं पशुपतिं वरदं त्रिनेत्रम्
भूताधिपं सकललोकपतिं सुरेशम् ।
शार्दूलचर्मचितिभस्मविभूषिताङ्गम्
नित्यं भजाम्यऽमरनाथमहं दयालुम् ॥
गन्धर्वयक्षरसुरकिन्नर-सिद्धसङ्घैः
संस्तूयमानमनिशं श्रुतिपूतमन्त्रैः ।
सर्वत्रसर्वहृदयैकनिवासिनं तम्
नित्यं भजाम्यऽमरनाथमहं दयालुम् ॥
व्योमानिलानलजलावनिसोमसूर्य
होत्रीभिरष्टतनुभिर्जगदेकनाथः ।
यस्तिष्ठतीह जनमङ्गलधारणाय
तं प्रार्थयाम्यऽमरनाथमहं दयालुम् ॥
शैलेन्द्रतुङ्गशिखरे गिरिजासमेतम्
प्रालेयदुर्गमगुहासु सदा वसन्तम् ।
श्रीमद्गजाननविराजित दक्षिणाङ्कम्
नित्यं भजाम्यऽमरनाथमहं दयालुम् ॥
वाग्बुद्धिचित्तकरणैश्च तपोभिरुग्रैः
शक्यं समाकलयितुं न यदीयरूपम् ।
तं भक्तिभावसुलभं शरणं नतानाम्
नित्य भजाम्यऽमरनाथमहं दयालुम् ॥
आद्यन्तहीनमखिलाधिपतिं गिरीशम्
भक्तप्रियं हितकरं प्रभुमद्वयैकम् ।
सृष्टिस्थितिप्रलयलीलमनन्तशक्तिम्
नित्यं भजाम्यऽमरनाथमहं दयालुम् ॥
हे पार्वतीश वृषभध्वज शूलपाणे
हे नीलकण्ठ मदनान्तक शुभ्रमूर्ते ।
हे भक्तकल्पतरुरूप सुखैकसिन्धो
मां पाहि पाहि भवतोऽमरनाथ नित्यम् ॥